देवैः कृतं गणनाथस्तोत्रम्

देवा ऊचुः ।
नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च ॥ १५४॥

रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते ।
कूष्माण्डगणनाथाय योगिनां पतये नमः ॥ १५५॥

सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे ।
वेदानां पतये चैव वेदवेद्याय ते नमः ॥ १५६॥

वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे ।
वज्रालङ्कृतदेहाय वज्रिणाऽऽराधिताय ते ॥ १५७॥

रक्ताय रक्तनेत्राय रक्ताम्बरधराय ते ।
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने ॥ १५८॥

नमः सेनाधिपतये रुद्राणां पतेय नमः ।
भूतानां भुवनेशानां पतये पापहारिणे ॥ १५९॥

रुद्राय रुद्रपतये रौद्रपापहराय ते ।
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः ॥ १६०॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे एकसप्ततितमाध्यायान्तर्गतं
         देवैः कृतं गणनाथस्तोत्रं समाप्तम् ।

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page

Scroll to Top