॥ श्रीगणेशाय नमः ॥
मयूरेश उवाच ।
नमस्ते गणनाथाय सर्वविघ्नविदारिणे ।
भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥
ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने ।
अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥
वक्रतुण्डाय वक्राणां नाशकार परात्मने ।
लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥
चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे ।
हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥
योगेशाय सदा शान्तिदात्रे शान्तिमयाय च ।
शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥
ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते ।
ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥
अनादये च सर्वेषामादिरूपाय विघ्नप ।
विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥
स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये ।
सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥
महोदराय भीमाय पापिनां दण्डधारिणे ।
स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥
मयूरवाहनायैव मयूरेश्वर ते नमः ।
आखुवाहाय सर्वेश परात्पराय वै नमः ॥
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥
रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् ।
यया माया न बाध्यते बुद्धीश ते नमो नमः ॥
इति मयूरेशकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥

