हिमांशुगौडकृता गजास्यस्तुतिः



विभास्यामृतास्यप्रभास्यैस्सुमास्यैः
फणास्यैर्हयास्यैस्तथा वानरास्यैः ।
द्विजास्यैरजास्यैरुपास्यं द्विपास्यं
मतम्पूजितं संस्मरामो नमामः ॥ १॥


सुदन्तैर्विदन्तैश्शुभान्ताशुभान्तै-
स्सुदान्तैस्सुकान्तैर्दिनान्तैस्स्मृतन्तम् ।
समन्तात्कुजानान्तकैरन्तकान्तं
ह्यनन्तं तं चैकदन्तं नमामः ॥ २॥


महाशान्तिसक्तैर्महाकान्तियुक्तै-
र्महादेवभक्तैर्महावीररक्तैः ।
र्महाकार्यशक्तैरशक्तैस्स्मृतं तं
महामोहहं मोदकात्तं स्मरामः ॥ ३॥


सदा नागकन्याशतीसुन्दरीणां
ततीर्लासयेन्नैजभक्ताय सद्यो ।
ह्यनूढा विवोढुं धनाढ्यास्सुखाढ्याश्
शुभाढ्याश्शुभाव्यं विबाधं स्मरामः ॥ ४॥


सहस्राक्षसाक्ष्यं समक्षैकपक्षं
अलक्ष्यं सदाक्ष्णां, सदक्ष्णां सुलक्ष्यम् ।
स्वदत्ताक्षिनिर्मक्षिकैकाक्षिभूतं
क्षमाप्री-क्ष्मादं नुमः क्षीणदोषम् ॥ ५॥


सहस्रोल्लसद्यौवनद्योतदं तं
अजस्रामृताब्दं ह्यशेषैकशब्द ।
सहस्राब्दशब्दाम्बुधाराह्वनीयं
प्रलब्धं सुभाग्यैर्भजे भाग्यलेखम् ॥ ६॥


क्वचिद्घोरकर्मा क्वचिद्दिव्यकर्मा
क्वचित्पुण्यवर्मा क्वचिद्गुण्यशर्मा ।
क्वचिन्माथुरीचातुरीषूत्तरीय-
स्स मामुद्धरेद्यज्ञधर्मा गजास्यः ॥ ७॥


क्वचिन्मादनीलेखया भ्राजमानो
क्वचित्पाटलाप्रीतिगन्धायमानो ।
ह्यदृश्योऽखिलादृश्यदृश्यैकदर्शी
सुदृश्यश्रियोद्दर्शितं दर्शयामः ॥ ८॥

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page

Scroll to Top