रामकृता श्रीगणनाथस्तुतिः

॥ श्रीगणेशाय नमः ॥
राम उवाच ।
नमस्ते गणनाथाय भक्तानन्दविवर्धन ।
भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥
वेदान्तवेद्यरूपाय मनोवाणीमयाय च ।
मनोवाणीविहीनाय योगाकाराय ते नमः ॥
गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे ।
सगुणाय च कण्ठाधो नराकाराय ते नमः ॥
अनादये च पूज्याय सर्वेषां सर्वदायिने ।
आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥
विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् ।
सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥
वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै ।
सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥
महोदराय सिद्धेश्च बुद्धेश्च पतये नमः ।
नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥
नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः ।
सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥
नानादैत्यनिहन्त्रे च देवानां मदहारिणे ।
सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥
सर्वत्र योगरूपेण संयोगायोगहीनतः ।
संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥
यं समर्था गणाध्यक्ष योगिनः शेषकादयः ।
शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥
तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् ।
तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥
एवं संस्तुवतस्तस्य भक्तिभावेन मानद ।
भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥
ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः ।
जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥
तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः ।
उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥

(फलश्रुतिः)
राम राम महाभाग शृणु मे परमं वचः ।
धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥
त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् ।
पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥
तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥
यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव ।
मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥
परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः ।
जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥
निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः ।
एकविंशतिवारं त्वं सदा जयसमन्वितः ॥
नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् ।
उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥
यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले ।
शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥

इति रामकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page

Scroll to Top